|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.71. अध्यायः 071
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति ब्राह्मणमाहात्म्यप्रतिपादकशक्रशम्बरसंवादानुवादः॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
शक्रशम्बरसंवादं तन्निवोध युधिष्ठिर॥ 13-71-1(84317)
शक्रो ह्यज्ञातरूपेण जटी भूत्वा सुवारुणः।
विप्ररूपं समास्थाय प्रश्नं पप्रच्छ शम्बरम्॥ 13-71-2(84318)
केन शम्बर वृत्तेन स्वजात्यानधितिष्ठसि।
श्रेष्ठं त्वां केन मन्यन्ते तद्वै प्रब्रूहि तत्त्वतः॥ 13-71-3(84319)
शम्बर उवाच। 13-71-4x(7008)
नासूयामि सदा विप्रान्ब्राह्ममेव च मे मतम्।
शास्त्राणि वदतो विप्रान्संमन्यामि यथासुखम्॥ 13-71-4(84320)
श्रुत्वा च नावजानामि नापराध्यामि कर्हिचित्।
अभ्यर्च्याभ्यनुपृच्छामि पादौ गृह्णामि धीमताम्॥ 13-71-5(84321)
ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा।
प्रमत्तेष्वप्रमत्तोऽस्मि सदा सुप्तेषु जागृमि॥ 13-71-6(84322)
ते मां शास्त्रपथे युक्तं ब्रह्मण्यमनसूयकम्।
समासिञ्चति शास्तारः क्षौद्रं मध्विव मक्षिकाः॥ 13-71-7(84323)
यच्च भाषन्ति संतुष्टास्तच्च गृह्णाम्यमायया।
समाधिमात्मनो नित्यमनुलोममचिन्तयम्॥ 13-71-8(84324)
सोहं वागग्रमृष्टानां रसानामवलेहकः।
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः॥ 13-71-9(84325)
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम्।
यद्ब्राह्मणमुखाच्छास्त्रमिह श्रुत्वा प्रवर्तते॥ 13-71-10(84326)
एतत्कारणमाज्ञाय दृष्ट्वा देवासुरं पुरा।
युद्धं पिता मे हृष्टात्मा विस्मितः समपद्यत॥ 13-71-11(84327)
दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम्।
पर्यपृच्छत्कथममी सिद्धा इति निशाकरम्॥ 13-71-12(84328)
सोम उवाच। 13-71-13x(7009)
ब्राह्मणास्तपसा सर्वे सिध्यन्ते वाग्बलाः सदा।
भुजवीर्याश्च राजानो वागस्त्राश्च द्विजातयः॥ 13-71-13(84329)
प्रवसन्वाप्यधीयीत ब्राह्मीर्दुर्वसतीर्वसन्।
निर्मन्युरपि निर्वाणो यतिः स्यात्समदर्शनः॥ 13-71-14(84330)
अपि च ज्ञानसम्पन्नः सर्वान्वेदान्पितुर्गृहे।
श्लाघमान इवाधीयाद्ग्राम्य इत्येव तं विदुः॥ 13-71-15(84331)
भूमिरेतौ निगिरति सर्पो बिलशयानिव।
राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम्॥ 13-71-16(84332)
अभिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः।
गर्भेण दुष्यते कन्या गृहवासेन च द्विजः॥ 13-71-17(84333)
`विद्याविदो लोकविदस्तपोदमसमन्विताः।
नित्यपूज्याश्च वन्द्याश्च द्विजा लोकद्वयेच्छुभिः॥ 13-71-18(84334)
इत्येतन्मे पिता श्रुत्वा सोमादद्भुतदर्शनात्।
ब्राह्मणान्पूजयामास तथैवाहं महाव्रतान्॥ 13-71-19(84335)
भीष्म उवाच। 13-71-20x(7010)
श्रुत्वैतद्वचनं शक्रो दानवेन्द्रमुखाच्च्युतम्।
द्विजान्संम्पूजयामास महेन्द्रत्वमवाप च॥ ॥ 13-71-20(84336)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकसप्ततितमोऽध्यायः॥ 71 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-71-7 मां मयि। मधु अमृततुल्यां विद्यां समासिच्चन्ति क्षौद्रं मधुपटलम् मक्षिका मध्विवेत्यावृत्त्या योज्यम्॥ 7-71-8 समाधिं ब्राह्मणेषु निष्ठाम्॥ 7-71-9 वागग्रे जिह्वाग्रे मृष्टं विद्यामृतं येषां ब्राह्मणानाम्। रसानामुक्तिसुधानाम्॥ 7-71-14 ब्राह्मर्वेदार्थाः दुर्वसतीः गुरुकुलवासक्लेशात्। अपि अपिवा। सति वैराग्ये यतिः स्यात्॥ 7-71-15 पितुर्गृहे वेदाध्ययनं निन्दति अपीति॥ 7-71-16 अप्रवासिनं वेदार्थं ग्रामान्तरे वा समकुर्वाणम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|